________________
आह्निकम् ] निग्रहस्थानप्रकरणम्
१९५ काममस्तु परावबोधावधि वाक्योच्चारणम्, जल्पे तु विजिगीषुकथायां पुरुषशक्तिपरीक्षणादवश्यमुच्चारणनियम आश्रयणीयः । तत्र सकृद् वा द्विर्वाभिहितस्याग्रहणमनवधानादिनापि सम्भवन्न निग्रहाय कल्पते, विरभिहितस्य तु सर्वैरग्रहणे वक्तुरेवापराधः । अन्यैर्गृहीतस्य प्रतिवादिना अग्रहणे तस्य निग्रहः । वारत्रयादप्यूर्ध्वमभिधाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात्, 5 छात्रशाला ह्यसौ भवेन्नोद्ग्राहणिकं तदिति । अज्ञानस्य लक्षणम्
अविज्ञातञ्चाज्ञानम् ॥ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञानं नाम निग्रहस्थानं भवति । अविदितोत्तरविषयो हि क्वोत्तरं ब्रूयादिति । 10
अत्राह, अज्ञानमप्रतिभेति नानयोविशेषं पश्यामः ।
अत्रोच्यते, भिन्नविषयत्वाददोषः । उत्तरविषयाप्रतिपत्तिरज्ञानम्, उत्तराप्रतिपत्तिस्त्वप्रतिभेति । ___ननूत्तरविषयं यो न जानाति स उत्तरमपि न जानात्येव, मैवम्, उत्तरविषयं जानन्नपि कश्चित्तरं न जानातीति लोकदृष्टमेतत् । एवं तहि अननु- 15 भाषणेन गतार्थमज्ञानम् अज्ञाते हि परकीये वाक्यार्थे तदनुभाषणे सामर्थ्याभावदर्शनात् । सन्ति हि केचिद् येऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखितं तदावेदयन्तीति, एवं त्रयाणामपि च न पौनरुक्त्यम् । उत्तरविषयाप्रतिपत्तिरज्ञानम्, प्रतिपत्तावपि तदप्रत्युच्चारणमननुभाषणम्, अनुभाषितेऽप्युत्तराप्रतिपत्तिरप्रतिभेति ।
ननु यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्थमभिधीयते तीज्ञानप्रकारवैचित्र्याद भेदान्तराण्यपि वक्तव्यानीति । उक्तमत्र सारसङ्ग्रहविवक्षया, द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति । इतरेतरविसदृशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते, अवान्तरविशेषैस्तु तदानन्त्यमभ्युपगम्यत एव । तथा च द्वाविंशतिवर्गे हेत्वाभासाश्चेति पठितम्, 25 ते च स्वरूपेणैव तावत् पञ्च ‘सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला
20