________________
१९६ न्यायमञ्ज
[ द्वादशम् हेत्वाभासाः' इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव । इह त्वेकमेव तन्निग्रहस्थानमादिष्टम् ‘हेत्वाभासाश्च यथोक्ताः' इति । तस्मादित्थं समासव्यासवर्णनादलं पदे पदे पर्यनुयोगेनेति । अप्रतिभाया लक्षणम्
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ परपक्षे गृहीतेऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निग्रहस्थानं भवति । अज्ञानादिभ्यो भिन्नता अस्य वर्णितैव । कीतिरपि
चैतदनुमन्यत एव निग्रहस्थानम् । ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत यत् किञ्चिद् विकत्थमानः । तद्यथा,
हृत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क्व जनोऽस्मदादिः । क्वायं बटुः कतिपयाक्षरलेशलिप्तजिह्वान्वितः कथमनेन सहाभिदध्मः ॥ दानान्गन्धगजकुम्भकपाटभेदिभीमस्फुरन्नखशिखाशिखरः क्व सिंहः ।
क्वामी समीरणविधूतपुराणपर्णपातोद्भवद्भयविलोलदृशः कुरङ्गाः ॥ इत्यादि यद्वा तद्वा प्रलपन्नास्ते । 15 विक्षेपस्य लक्षणम
___कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥
उद्ग्राहणिकामुपक्रम्य वा तद् ग्राहयितव्यं मयेति प्रतिश्रुत्य वाभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्ग व्यपदिशति इदं मे करणीयमपहोयते गच्छामि इत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते । अन्यतरनिग्रहान्ता हि कथा भवति । स चेत्थं कथां कुर्वन्नात्मनैवात्मानं निगृह्णाति, प्रतिश्यायेन मे कण्ठोपरोध उदपादि । पदमपि वक्तुं न युज्यते । जननी मे जीवितं जहाति स्म तां श्मशानभुवं प्रापय्य वह्निसात्करोमीति ।
अत्राह, यदि तावत् परमार्थत एव मातृमरणादिकार्यमस्योपस्थितं तत् किमिति तपस्वी पराजीयते ? उद्ग्राहणिकाजितो मा भूदिति किमसौ मृतां 25 मातरमपि मा धाक्षीदिति महत् सुभाषितमिति । पीनसापरुद्धस्थानकरणो