________________
१९७
आह्निकम् ।
निग्रहस्थानप्रकरणम् वाचमुदीरयतु, अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङ्गं तहि सत्यं निगृह्यते न तु विक्षेपेण, किन्तु अन्येनैव । वादी तावत् कर्तव्यव्याजव्यपदेशादर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति, अतिप्रसङ्गश्चैवंप्रकाराणां निर्देशे भवेदिति । ___अत्रोच्यते कथामुपक्रम्य प्रतिज्ञां वा हेतुमभिधाय तद्विवरणसरणिमिष- 5 मवलम्ब्य किञ्चिदर्थान्तरमुपन्यस्यति यत् तदर्थान्तरमुदाहृतमादावेव । इह तु कथापूर्वरङ्गे कथायां वा किमपि करणीयनिभमभिधाय सभयमपसरति सदस इति कथमिव तत्तुल्यता भवति ? अप्रतिभयापि श्रुतपूर्वपक्षः पराजीयते । इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा प्रथममेव पलायत इति महान् विशेषः । अतिप्रसङ्गस्त्वसकृत् पराकृतः । यत्तु हेत्वाभासेष्वन्तर्भावमस्य 10 कीतिरकोर्तयत् तदतीव सुभाषितम् । क्व हेत्वाभासः, क्व कार्यव्यासङ्गः । संप्रधारणैव रमणीयेयम्, अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति परमं नः कुतूहलम् । मतानुज्ञाया लक्षणम्
स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
स्वपक्षे परापादितदोषमनुद्धृत्याभ्युपगम्य परपक्षे तमेवापादयतः परमतानुज्ञा नाम निग्रहस्थानं भवति । यथा चौरो भवान् पुरुषत्वात् प्रसिद्ध
- अतिप्रसङ्गश्चैवंप्रायाणां निर्देशे भवेदिति । असम्बद्धप्रतिपत्तिरूपत्वादेते अप्रतिपत्तावन्तर्भवन्ति । पृथक् त्वेवंप्रायाणां निर्देशे क्रियमाणे नेयत्तानिर्देशः क्रियेतेत्यव्यवस्था। किमस्य कार्यव्यासङ्गस्य ।
अहेतोर्हेतुवदाभासनं कोतिना दृष्टमिति । ननु धर्मकीर्तिनापि किं निरनुबन्धनमेव कथाविक्षेपस्य हेत्वाभासत्वमुक्तम् ?, अस्ति तस्याभिप्रायः । स हि प्रकृतसाधनासम्बन्धप्रतीते हेत्वाभासतां मन्यते । प्रकृतस्य साध्यस्य साधने यस्य सामर्थ्यं नास्ति तस्य सर्वस्य हेत्वाभासतेति हि तत्पक्षः । तथा चाह,
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे ।
15
'तनुज्ञा ॥
20