________________
१९८ न्यायमञ्ज
[द्वादशम् चौरवदित्युक्ते सत्याह भवानपि चोरः पुरुषत्वादिति । सोऽयमेवं वदन्नात्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते ।।
अत्राह, अनैकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोतीति किमिति निगृह्यते ? वाद्येव हेत्वाभासप्रयोगान्निग्राह्य इति । ____ अत्रोच्यते, उक्तमादावेव स्वपक्षे दोषमनुद्धृत्येति । एवं हि तेन वक्तव्यमनैकान्तिकोऽयं हेतुरचौरेऽपि पुरुषत्वदर्शनादिति । एवं हि स दोष उद्धृतो भवति । एवं त्वनभिधाय भवानपि चौरः पुरुषत्वादिति वदन्ननुजानात्येव परमतम् अतोऽनैकान्तिकत्वे वक्तव्ये तदुद्भावनानुक्रममवधीर्य प्रसङ्गमापादय
निग्रहा) भवत्येवेति । वादिनश्चानैकान्तिकहेतुप्रयोगेऽपि तदनुद्भावनान्न 10 पराजयः । प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति । पर्यनुयोज्योपेक्षणस्य लक्षणम्
निग्रहस्थान प्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, इदं ते निग्रहस्थानमुपनतम् __ अतो निगृहीतोऽसीत्येवं वचनीयः, तं य उपेक्षते नानुयुङ्क्ते स पर्यनुयुज्यो15 पेक्षणान्निगृह्यते ।
अत्राह, कः कस्येदं निग्रहस्थानमापादयति, किं पर्यनुयोज्य उत तदुपेक्षकः ? उपेक्षकस्तावदस्य पर्यनुयोज्यतां न जानाति जानन् वा कथमेनमुपेक्षेत । उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टामेष पर्यनुयोज्यो
ऽपि मयोपेक्षित इति निगृहीतोऽस्मि । पर्यनुयोज्योऽपि कथमात्मीयमवद्यम् 20 प्रकाशयेदिदं मे दूषणं तच्च भवता नोद्भावितमतो भवान् जित इति । स
खल्वेवमभिदधदमेध्यं पाणौ निधाय परं कलङ्कयितुकामः परं कलङ्कयन्तेवात्मकलङ्कमनुभवत्येवेति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किन्त्वप्रतिभैवेति । तथा हि यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभास
मप्याचक्षाणमुपेक्षेत, तत्र दूषणं नोद्भावयेत्, तदुत्तराप्रतिपत्त्या स निगृह्यते, 25 न पर्यनुयोज्योपेक्षणेन । वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिर्धारणमनुपपन्न
मेकस्य साधनाभासवादित्वादितरस्य च तदुत्तराप्रतिभानात् । अथ पूर्वपाक्षिकं