________________
१८८ न्यायमञ्ज
[ द्वादशम् हरणम्, सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात्,स्वलक्षणे तेषामप्रवृत्तेः,अपोहस्य चातितुच्छत्वात् सर्वं तदभिधानं निरर्थकम् । अत एव चोन्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति । एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता भविष्यति । यच्चोक्तमीदृशां गणने का परिनिष्ठेति, तत् परिहृतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति। कपोलवादनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव । यस्य चास्मिन् कथाप्रसङ्गे गण्डवादित्रादि चेतसि परिस्फुरति
तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलमसम्बद्धगोष्ठ्येति । 10 अविज्ञातार्थस्य लक्षणम्
पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥
यत् साधनवाक्यं दूषणवाक्यं वा विरभिहितं पर्षदा प्रतिवादिना च न विज्ञायते क्लिष्टशब्दप्रयोगमिति तीव्रमुच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय च धूर्तंरिदमाश्रीयते । ___अत्राह, अर्थासम्प्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद् भेदः ? अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेन्न तु विदुषो वक्तुं विवदमानस्य पराजयो भवितुमर्हति । किं कृतश्चैष त्रिरुच्चारणनियमः ? किं राजाज्ञया उत वाक्येनेति न विद्मः ।
अत्रोच्यते, निरथके सर्वेण सर्वमर्थशून्यता, इह तु भवन्नर्थो नावगम्यते, द्रुतोच्चारणादिव्यतिकरवशादिति कथमविशेषः ? तत्र च कल्प्यते नूनमसामर्थ्यमात्मीयं संवरीतुमना एवमभिधत्ते । न हि समर्थो विद्वान् विस्पष्टं न वक्तीति । त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः; किन्तु वस्तुस्थित्युपनत एव । यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति सम्भाव्यते, विस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम्, अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते, सर्वैरनवगमात्तु वक्तैव निगृह्यते । चतुर्धा पञ्चकृत्वो वाभिधाने त्विष्यमाणे निरवधिता अभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति ।