________________
आह्निकम् ] स्थाननिग्रहप्रकरणम्
१८७ ननु गुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति । निरर्थकस्य लक्षणम्
वर्णक्रमनिर्देशवन्निरर्थकम् ॥ अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति । 5 अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम् । इदमपि वादिप्रतिवादिनोः प्रकृताननगुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रम साधनं दूषणञ्च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् । ___ अत्राह, सोऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तः, न ह्यनुन्मत्तानामीदृश्यक्षराणि मुखान्निर्गच्छन्ति । ईदृशाञ्च निर्देशे कपोलवादित्रकक्ष्याभि- 10 ताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् । अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश एष सूत्रे वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्वं वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहणिकाः प्रस्तूयेरन् । अथानर्थकक्रमनिर्देशयुक्तमिति व्याख्यायते तथापि नियमानुपपत्तिः । न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव, वर्णक्रमनिर्देशस्यापि च क्वचित् 15 प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत् । वतिपक्षे तु भवति दिक्प्रदर्शनमेतत्, किन्त्वर्थान्तरेणैव गतार्थत्वात् पृथङ् न वक्तव्यम् ।
. अत्रोच्यते, मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम् । अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति । एष एव चार्थान्तरादस्य विशेषः । तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः, इह त्वभिधेयमेव नास्तीति । यत्र 20 क्वचित् प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम्, उदाहरणं यदि स्फुटं पृच्छसि, न कुप्यसि चेत्, तद् भवदीयं सर्वमेव वचनमिहोदाके बौद्धाः ? ये बुद्धस्य भगवतः शासनमभ्युपेताः। को बुद्धो भगवान् ? यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः । कः पुनर्भदन्तः अश्वघोषः ? यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च राष्ट्रपालं नाम नाटकम् इति, प्रसङ्गं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार 25 इत्यादिकं पठेन्नृत्येच्च ।”