SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्सा [ द्वादशम् स्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं सम्प्रत्येवायमिष्यते । पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्, वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः । 5 अर्थान्तरस्य लक्षणम् प्रकृतादादप्रतिसम्बद्धमर्थान्तरम् ॥ प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति । यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तिकतामाशङ्कमानोऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति । वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेश्छात्राः । कः पुनर्भगवान् पाणिनिरिति ? येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः ।। 15 कः पुनर्महेश्वरोः ? यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति अस्त्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः । विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः । अपि च, अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तोनि बिभर्ति मौलिना कृताञ्जलि: पादरजांसि वासवः ।। कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ? इत्थं चारीक्रमो यस्मिन्नित्थञ्च करवर्तनाः । इत्थं यत्र घटीच्छेदा दात्रपादास्तथेदृशाः ॥ इत्येकैकमुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधना25 ङ्गवचनमिति कीर्तिनाप्यनुमोदितम् । द्वयोरपि च वादिप्रतिवादिनोः प्रकृता कोतिनाऽप्यनुमोदितम् । स ह्याह “कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy