________________
१८५
आह्निकम् ]
स्थाननिग्रहप्रकरणम् तादृशमेव स्वाश्रयव्यङ्गयत्वादिति मुह्यतो नातिस्थूलममुमीदृशं प्रमादम् प्रतिपन्नस्य भवत्येव निग्रहः । अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा। यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनैकान्तिकत्वेनैवासौ निगृह्यते, स्यादेतदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तूष्णीमेवासीत । तथाविधन्तु ब्रुवाणस्तस्यैव पराजयहेतोः सन्निकृष्टत्वात् । तैरेव निगृहीतो भवति नानैकान्तिकप्रयोगेणेति । हेत्वन्तरस्य लक्षणम्
अविशेषोक्ते हेतौ प्रतिषिद्धं विशेषमिच्छतो हेत्वन्तरम् ॥
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति । यथा सांख्यस्येत्थं वदतः, एकप्रकृतीदं व्यक्तं परिमाणाद् 10 घटादिवत्, विविधञ्च परिमाणं विकारेषु दृष्टमियत्तालक्षणमङकुरादेः फलान्तरस्य चतुरश्रिता च पटादेः मृत्पूर्वकस्य । तदेतत् परिमितं निराकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति, या च सैका प्रकृतिस्तत् प्रधानमिति । अस्य हेतोय॑भिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति । तत्परिजिहीर्षया विशेषणमाह समन्वयादिति । सुखदुःखमोह- 15 समन्वितं हि सर्वं व्यक्तं परिमितं दृश्यत इति, तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतित्वमिति । तदिदं त्वन्तरं निग्रहस्थानं प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति ।
अत्राह, किमयं दग्धो दह्यते मृतो वा मार्यते । अनैकान्तिकहेतूपन्यासेनैव खल्वयं तपस्वी निगृहीतः, असाधनाङ्गवचनादिति किं हेत्वन्तराख्यनिग्रह- 20 स्थानान्तरोदीरणेनेति ।
अत्रोच्यते, युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह । यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाभिधातुं प्रवृत्त
प्रकृत्यन्तररूपसमन्वयाभावादिति । सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम् । विशेषणमाह समन्वयादिति । एकप्रकृतिसमन्वये सति 25 विकाराणां परिमाणादिति सविशेषगो हेतुः ।
न्या० म. २४