SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ . १८४ न्यायमञ्ज [ द्वादशम् विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः । यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ।। इति । तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम् । 5 प्रतिज्ञासंन्यासस्य लक्षणम् ___ पक्षप्रतिषेधे प्रतिज्ञार्थापनयनं प्रतिज्ञासन्न्यासः ॥ पक्षसाधने परेण दूषिते तदुद्धरणाशक्तया प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तत्रैव सामान्येनानैकान्तिकतायामुट्टङ्कितायां प्रतिब्रवीति क एवमाह नित्यः 10 शब्द इति ? सोऽयमेवं ब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते । ___अत्राह, अतिस्थूलः खल्वयं प्रमादः । को हि नाम प्रतिवादिप्राश्निकसन्निधाने प्रतिज्ञां कृत्वा तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतोऽपस्मारकाद्यनुपप्लुतमतिस्तामेव निह्नवीत । अपि च द्यूतपराजितपणरहित एव कितववदासीनः प्रतिज्ञामजहदपि हेतावनैकान्तिके किमसौ न निगृह्यते ? न 15 हि प्रतिज्ञायास्त्यागात्यागौ तदीयौ निग्रहानिग्रहयोः प्रयोजकौ, अपि तु हेतुगुण दोषावेव । स चायं साधनव्यभिचारादेवासिद्धपक्षः पराजीयत इत्यलं सन्न्यासेनेति। __ अत्रोच्यते, परोद्भावितहेत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतरलितमतेर्भवेदप्ययं प्रमादः । एवं ह्यसौ वदति, न मयोक्तं संयोगवियोगव्यङ्ग्यः शब्दो 29 न भवति न त्वनित्य इति । अयमाशयोऽस्यैवं वदतः किल संयोगविभागानभिव्यङ्गयत्वे मया पक्षीकृते सामान्येन व्यभिचारो न भविष्यतीति । तदपि हि यमदृष्ट्वा परैरुक्तमदूषणमिदं किलेति । ‘गुणव्यतिरिक्तं द्रव्यम्' इत्यादि यद् भाष्यकारेण प्रतिज्ञाहेतुविरोध्याख्यं दूषणं निग्रहस्थानमुक्तं न तैरदूषणतया समर्थितम् । इदं तु स्पष्टमुदाहरणम्, अस्यादूषणत्वं नैवोद्भावयितुं शक्यत इत्यर्थः । यं चादृष्ट्वा 25 दिङ्नागेन ‘स हि दृष्टान्त एवोक्तो वैध\ण सुशिक्षितैः' इति वदता नित्यः शब्दः सर्वस्या नित्यत्वादिति प्रतिज्ञाहेतुविरोध्याख्यमिदं दूषणं न भवतीत्युक्तम् ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy