________________
आह्निकम् ] निग्रहस्थानप्रकरणम्
१८३ निर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु यदि तदसम्भव उच्यते तहि हेत्वाभासव्याकरणमप्यकरणीयं भवेत्, पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयोगवत्तु तथाविधमप्यभिधानं सम्भवत्येव ।
यत् पुनरभ्यधायि सम्भवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरो भवेन्न दूषणान्तरम् इति । तत्र ब्रूमः, सत्यमेतत्, किन्तु हेतुस्वरूपनिरूपणावसरे सपदि 5 तद्गतदोषादोषदर्शनाद् विरुद्धता तस्याभिधीयते । यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्धहेतोर्वर्ण्यते, क्वचित् सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम्, यथा वा हेत्वाभासलक्षणे कथितमस्माभिरनित्यः शब्दश्चाक्षुषत्वादित्यस्यानैकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदयपथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार 10 इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते । यदा तु परार्थानुमानवाक्यस्य पञ्चावयवस्य, परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात् तद्विरोध एव झटिति मनसि विपरिवर्तते इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति 15 वाक्येऽप्रतिपतिविप्रतिपत्तिर्वा भवेदित्यद एव निग्रहस्थानम् । अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते । इह तु प्रतिज्ञया हेतुर्बाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम् । इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहरणान्तरनिरूपणं वृथाटाट्यैव । भाट्टैस्तु भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम्, निरालम्बनाः 20 सर्वे प्रत्ययाः प्रत्ययत्वादिति । यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सालम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति । तदुक्तम्,
"हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्" इति ।
सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि इति । नित्यः शब्दः कृतकत्वा- 25 दिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम्, कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता ।