________________
१८२
5
न्यायमञ्ज
[ द्वादशम् लब्धिर्न तहि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम् ।
अत्राह, नेदं प्रतिज्ञाहेत्वोविरोधोदाहरणं भवितुमर्हति, हेतोरसम्भवात् । सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुध्यते । इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तेः । सम्भवन्नपि चैवंविधं विषये प्रतिज्ञाविरोधे हेतुर्न द्वयों दोषजातिमतिवर्तते विरुद्धत्वमसिद्धत्वं वा। गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहणगतार्थत्वान्न पृथग वक्तव्यमिदं निग्रहस्थानम् । यदन्यदन्यैरुदाहरणमभाणि नित्यः शब्दः सर्वस्यानित्यत्वादिति तदप्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात् । तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विवक्षितः, नित्यः शब्दो निरवयवत्वात् सावयवस्यानित्यत्वादिति । सोऽयमपि शिक्षितवैधर्म्यदृष्टान्तप्रदर्शनताप्रक्रमैर्विपर्ययेण वैधHदृष्टान्त एव कथितः सर्वस्यानित्यत्वादिति । तदुक्तं स हि दृष्टान्त एवोक्तो वैधयेण सुशिक्षितैरिति । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति ।
अत्रोच्यते, यदुक्तं हेतोरसम्भवान्नेदं निग्रहस्थानम्, तदचारु, पञ्चम्यन्त
इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न सम्भवतीति । अयं भावः, नानुपलब्धिमात्रादसत्त्वं सिद्धयति, अपि तूपलब्धिलक्षणप्राप्तेऽनुपलब्धेः । न चात्र रूपादिपृथग्भूतस्योपलब्धिलक्षणप्राप्तत्वमस्तीति हेतोरभावः, निविशेषणाया अनुपलब्धेरभावसाधने सामर्थ्याभावाद् हेतोरभाव इत्यर्थः। वैधयंदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानादिति । अयं भावः, नित्यः शब्दः सर्वस्यानित्यत्वादिति । यदि शब्दस्य नित्यत्वे साध्ये सर्वस्यानित्यत्वं हेतुरुच्येत, स्यात् प्रतिज्ञाहेतुविरोधः। सर्वश्चेदनित्यः कथं शब्दो नित्यः ? तस्यापि सर्वमध्येऽन्तर्भावादिति । यावता तु नित्यः शब्दोऽमूर्तत्वादिति हेतुस्तस्याभिमतः सर्वस्यानित्यत्वादिति वैधयंदृष्टान्तः सर्वशब्दं सावयवपर्यायमाश्रित्य, यत् पुनः सावयवं
तदनित्यमिति । एवं च प्रतिज्ञा-हेतुविरोधस्य किमायातमिति । अथ यदि वैधादृष्टान्तो 25 विवक्षितः स्यात् साध्याभावे साधनव्यावृत्तिप्रदर्शनेनानित्यस्य सर्वत्वादिति ब्रूयात् ।
नैवम् । एवं दृष्टान्तानुभणनमस्य, न त्वेतावता हेतुपदत्वमस्य सिद्धयति । स हि दृष्टान्त एवोक्त इत्यस्य पूर्वमर्धम्,
20