________________
निग्रहस्थानप्रकरणम्
आह्निकम् ]
१८१
ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थं न प्रतिज्ञान्तरमित्युक्तम्, न, सिद्धत्वात् । असिद्धं हि विशेषणं भवति । नित्यत्ववादिनश्च प्रति शब्दस्यासर्वगतत्ववादिनञ्च प्रति शब्दस्यासर्वगतत्वमसिद्धम् । साध्यते चेत्, तर्हि प्रतिज्ञान्तरमेवेदं हेत्वाद्यवयववैलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः । अनैकान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धञ्च वाच्यं न तु धर्मिविशेषणं s साध्यञ्चेति । अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रतिज्ञान्तरं निग्रहस्थानं भवति । इह तु अनैकान्तिकत्वपरिहाराय यतमानो मार्गमनुगुणमपश्यन् स्खलित इव निगृह्यते । न च हेतूदाहरणादिप्रयोगनिपुणमतेरपि भ्रमादेवंविधमभिधानं न सम्भवति । न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति, अपि तु व्यभिचारं परिजिहीर्षन्निति ।
न चायमुन्मत्तप्रलाप एव, प्रस्तुतानुगुण्यबुद्ध्या प्रयोगात् । अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नाम हेत्वाभासो भवद्भिरपि शास्त्रे लक्षित एव, स उन्मत्तप्रलापो न भवति । यथोदाहृतं प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्वं एष भिक्षोः स्वदर्शन रागः परदर्शनद्वेषो वा । को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात्, इदं सम्भवत्येवाभिधानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद् धर्मिविशेषणं साध्यं वा अयमुक्तवानिति, निमित्तान्तरमिदमस्य निग्रहे निरूपितम् । द्वितीय एव तु वचसि कथाविरतौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् ।
प्रतिज्ञाविरोधस्य लक्षणम्
प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः ॥
यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति । गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति हेतु:, सोऽयं प्रतिज्ञाहेत्वोविरोधः । यदि गुणव्यतिरिक्तं द्रव्यं न, तर्हि रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुप
10
15
20
साध्यते चेत् तर्हि प्रतिज्ञान्तरमेवेति । कथं ज्ञायत इत्याह हेत्वाद्यवयव- 25 वैलक्षण्यादिति ।