________________
5
10
15
20
न्यायमञ्जय
[ द्वादशम्
तदनित्यत्वप्रतिज्ञा अस्य न हीयते ? यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति, स्यादेतदेवम्, यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचारोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि वर्तमानस्तदुद्धरणबुद्धया तथाविधमभिधत्ते येन प्रतिज्ञां जहाति । अतश्च व्यभिचारपरिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति । अयमेव मुख्यः प्रतिज्ञाहानेविषयः ।
१८०
प्रतिज्ञान्तरस्य लक्षणम्
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो वादिनः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाद् इत्युक्ते पूर्ववत् सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमैन्द्रियकं यन्नित्यं तद्युक्तं तद्धि सर्वगतम्, असर्वंगतस्तु शब्द इति प्रतिज्ञां कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति ।
अत्राह, नेदमप्रस्तुतप्रतिज्ञान्तरकरणम् अपि तु परोद्भावितव्यभिचारनिवारणं विशेषणोपादानमेतत् । एतदुक्तं भवति, असर्वंगतत्वे सत्यैन्द्रियकत्वादनित्यः शब्द इति । तदिदमसर्वगतत्वं प्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रह - स्थानम् ? यो हि मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वप्रतिज्ञामवधीर्यं तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत् । न चोन्मत्तप्रलापानां शास्त्रे लक्षणकरणं युक्तम् । स्पष्ट निग्रहहेतौ हेत्वाभासाभिधाने सम्भवति किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति ।
अत्रोच्यते, प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ न पुनः प्रतिज्ञान्तरं करणीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन् परेणानैकान्तिकीकृते 25 सति न तत्परिहारप्रकारमनुगुणमयमा स्थितवान् अपि त्वसर्वगतत्वप्रतिज्ञामन्यामधिरूढः ।