________________
आह्निकम् ] निग्रहस्थानप्रकरणम्
१७९ . प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते तत्र प्रतिवादिना च दूषणे उद्भाविते, तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानाति तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहानिर्निग्रहस्थानं भवति । तद् यथा अनित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते पर आह सामान्यमैन्द्रिय- 5 कमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकं नित्यं तहि तथैव घटोऽपि नित्योऽस्त्विति । अयमस्य एवं वदतो भ्रमः किल नित्यानित्यपक्षवृत्तिरनैकान्तिकतामेष विजह्यादिति । तदेवमस्य ब्रुवतः प्रतिज्ञाहानिर्भवति । घटस्य हि नित्यत्वे तदृष्टान्तबलादेव शब्दोऽपि नित्यः 10 स्यादिति ।
तत्र कीतिराह, प्रतिजैव तावदसाधनाङ्गवचनमिति तदभिधानं निग्रहस्थानं भवितुमर्हति न तद्धानिः । न च हानिरप्यस्ति । यदि नाम घटस्य दृष्टान्तीकृतस्य प्रतिदृष्टान्तधर्मं नित्यत्वमयमभ्युपैति किमियता शब्दानित्यत्वप्रतिज्ञामवजहाति ? अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एव । 15 स चायमनैकान्तिकहेत्वाभासप्रयोगादेव पराजीयते न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम् । ___अत्रोच्यते, प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे निर्णीतमेतत् । प्रतिज्ञासिद्धयर्थमेव सर्ववादिनां प्रयासः । अनिर्दिष्टा च साधयितुमशक्यैवेति न तद्वचनमसाधनाङ्गवचनम् । लौकिकेष्वपि च ऋणा- 20 दानादिविवादपदेषु प्रतिज्ञाहानिमेव मुख्यं पराजयकारणमाहुः । तदाह नारदः,
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेदिति ॥ प्रतिदृष्टान्तधर्मञ्च स्वदृष्टान्तेऽभ्युपगच्छद् उत्सृजत्येव प्रतिज्ञाम् । 25 नित्यत्वं हि सामान्यवद् घटस्यापि सहते, तदृष्टान्तबलेन च तद्धर्मं शब्दे सिषाधयिषतीति नूनमिदानीं नित्यत्वमेव घटधर्मः शब्दे सिद्धयेदिति कथं