________________
१७८ न्यायमञ्जल्
[ द्वादशम् प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे । कुतः,
असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ वादिना सिषाधयिषितपक्षसिद्धये 'साधनमभिधेयम्, स चेदसाधनाङ्गं ब्रूयान्निगृह्यते । प्रतिवादिनापि वाद्युक्ते साधने दूषणमुद्भावनीयम्, स चेददोषमेव दोषत्वेनोद्भावयेन्निगृह्यते । ते एव द्वयोर्वादिप्रतिवादिनोनिग्रहस्थाने । अतोऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्शयिष्यति । कतिचिच्चात्र शिशुप्रलापप्रायाणि निग्रहस्थानानि निर्दिष्टानि । ताद्वंशि शास्त्रे लक्ष्यन्त इति परममप्रतिष्ठानम् । ___अत्रोच्यते,सक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं नोक्तवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति, एतच्च सामान्यलक्षणमखिलभेदसङ्ग्रहक्षमं भवति, न भवदुक्तम् । तथा हि उत्तराप्रतिभानेन वादिप्रतिवादिनोरन्यतरः पराजीयते न वा ? न पराजीयते इति कथमुच्यते ? किं मूक
इव जित्वा गच्छतु ? निगृह्यते चेत् किमनेनापराद्धम् ? न साधनाङ्गमुक्तं 15 न दोष उद्भावितः ।
_ अथ प्रसज्यप्रतिषेधेनोद्भावनमादौ व्याख्याय पुनरदोषोद्भावनमावृत्त्या पर्युदासेन वय॑ते, तर्हि ते एवैते विप्रतिपत्त्यप्रतिपत्ती उक्त स्याताम् । दोषानुद्भावनमप्रतिपत्तिः । एवमसाधनाङ्गवचनमपि विकल्पनीयम् । प्रसज्यप्रतिषेधवृत्त्यासाधनाङ्गस्यावचनमिति चेत्, सेयमप्रतिपत्तिः । अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा तदेव निग्रहस्थानद्वयमनेन श्लोकेन निबद्धं न पुनरभिनवमल्पमपि किञ्चिदुत्प्रेक्षितमिति । न च यथासंख्यनियमेन द्वयोर्दै निग्रहस्थाने कल्पनीये; अपि तु यथासम्भवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम् । द्वाविंशतिभेदत्वञ्च निग्रहस्थानानामसङ्कीर्णोदाहरणविवक्षया कथ्यते न
नियमायेत्युक्तमेव । परस्परविसदृशञ्च लक्षणमेषामिदानीमुपदिश्यत एव । तत्रैव 25 चायुक्तत्वमेषां बालिशप्रलापकल्पत्वं वा पराक्रियत एवेत्यलमतिप्रसङ्गेन । प्रतिज्ञाहानेर्लक्षणम्
एवं सामान्यलक्षणं विभागञ्चाभिधाय विशेषलक्षणान्याह,