________________
आह्निकम् ]
निग्रहस्थानप्रकरणम्
१७७
चातत्त्ववादिनो निगृह्या भवन्ति, तत्त्ववाद्यपि कदाचन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनुगुणामपश्यन् निगृह्यत एव । अत एव भाष्यकृतोक्तं तत्त्ववादिनमतत्त्ववादिनञ्चाभिप्लवन्ते निग्रहस्थानानीति । असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम् ।
अत एवानन्तरमाह,
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥
तदिति साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विप्रतिपत्त्यप्रतिपत्त्योश्च परामर्शः । नानाकल्पो विकल्पः प्रकारभेद इत्यर्थः । साधर्म्यवैधम्र्म्याभ्यां प्रत्यवस्थानप्रकारस्य बहुत्वाज्जातिबहुत्वम् ।
निग्रहस्थान विभागः
5
,
19
तद् द्वाविंशतिधा विभज्य दर्शयति,
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकम् अप्राप्तकालं न्यूनम् अधिकम् पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्त हेत्वाभासाच निग्रहस्थानानि ॥
अत्राननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपः पर्यनुयाज्योपेक्षणमित्यप्रतिपत्त्या संगृहीतानि शेषाणि विप्रतिपत्त्या । पुनरुक्तम् अधिकमित्यसमासकरणेन विप्रतिपत्त्यैव वाभिमतम्, असमासक्लिष्टकल्पनया सापि हि कुत्सितैव 20 प्रतिपत्तिर्यत् पुनरुक्तमधिकं वा प्रयुज्यत इति । असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्तनम् अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति । धर्मकीर्तिमते निग्रहस्थानद्वयमिति निर्दिश्य तत्खण्डनम्
अत्र कीर्ति राह, द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते तेषाञ्च तत्त्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते व्याप्नुवन्त्याक्रामन्ति ।
न्या० म० २३
15
25