________________
5
10
20
१७६
25
न्यायमञ्जय
जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाह,
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥
विग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । किञ्च पराजयनिमित्तं विप्रतिपत्तिरप्रतिपत्तिश्च विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिविप्रतिपत्तिः, साधनाभासे साधनबुद्धि:, दूषणाभासे दूषणबुद्धिः अप्रतिपत्तिस्त्वा15 रम्भविषयेऽनारम्भः, आरम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः, तयोरकरणमप्रतिपत्तिः, द्विधा हि वादी पराजीयते, यथा कर्तव्यतामनारभमाणो विपरीतं वा प्रतिपाद्यमानः । अत एव न कर्मकरणयोर्निग्रहमादिशन्ति । न हि ताभ्यां किञ्चिदपराद्धं स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात् । कर्ता तु प्रमाद्यन्नप्रयोज्यं प्रयुञ्जानः प्रयोज्यमप्रयुञ्जानो वा निग्रहमर्हति । प्रायेण
यादृग्
यक्षो बलिरपि तथेत्येवमाधाय बुद्धौ
यस्तु ब्रूयात् कलुषमफलस्तस्य शुद्धोऽपि हेतुः । षट्पक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धि शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम् ।। इतीदं व्याख्यातं निजसरणिसाङ्कर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुर्विंशतिविधम् । अमूषां तत्त्वज्ञः परविरचितानां परिहृतौ स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ॥ निग्रहस्थानानां मूलनिर्देश:
[ द्वादशम्
निग्रहस्थानेषु अत एव कर्मकरणयोनं निग्रहमादिशन्तीत्यनेन वार्तिककारं निर्दिशति । स हि परपक्षोऽपि दृष्यत इति पराभ्युपगमं निराकर्तुमाह "एतत् तु न सम्यक्, कर्मणस्तदवस्थ्यात् । न हि दूषणाभिधानेन कर्मणोऽन्यथात्वं भवति यथाभूत एवासी दूष्यमाणस्तथाभूत एवादूष्यमाण इति न करणस्य विषयान्तरेऽसामर्थ्यात् साधनमपि प्रतिज्ञादिकं न दृष्यते विषयान्तरेऽसामर्थ्यात् न हि किञ्चित् साधनं यद् विषयान्तरे समर्थं स्यात् सर्वं साधनं सविशेषणं विषये समर्थमिति । तस्मादसमर्थयोः कर्मकरणयोरुपादानेन कतुर्निग्रहः” इत्यादि ।