SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] जातिप्रकरणम् मुच्यते षष्ठेऽपि तथैव समानः । तृतीयपञ्चमयोस्तृतीये पक्षे परोक्तं समानदोषत्वमभ्युपगम्यते, पञ्चमेऽपि मतानुज्ञामुद्भावयता तदङ्गीकृतमेव भवति । तृतीयचतुर्थयोश्च परोक्तदोषानुद्धरणान्मतानुज्ञेत्येवं षट्पच्यामुभयोरसिद्धिः । तस्मात् सदुत्तरैर्दोषचिकित्सा साधीयसी नासदुत्तरैः षट्पक्षीप्रसङ्गादिति । १७५ असदुत्तरशृङ्खला कुत्र समाप्ता भवेदिति प्रदर्शनम् नन्वसदुत्तरकथनेऽपि कथं षट्पक्ष्यामेव विश्रामः शतपक्षी सहस्रपक्षी वाकथं न प्रवर्तते कोऽत्र नियम इति चेत्, उच्यते, इयत्येव निवर्त्यते वचनावकाश इति नानन्तपक्षता सम्भवति । तथा हि पूर्वोत्तरपक्षवादिनौ भवत एव कोऽत्र विचारः । तत्र स्थापनाहेतुवादिना तावत् प्रथमं स्वपक्षसाधनेऽभिहिते दूषणवादिना तत्र दूषणे वर्णिते, तृतीये वचसि वर्तमानः साधनवादी सम्यङ्ङ्गीत्योपक्रममाणस्तदूषणमुद्धर्तुं शक्नुयान्न वेति तस्यामेव दशायां प्राड्विवाकायते निर्णयः । असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धावकाशस्तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति, ततः स्थापनाहेतुवादी प्रतीपयोजनायामफलायां दुरन्तायां समव्ययफलायामशक्यक्रियायाञ्च निरुद्योगः किञ्चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुज्ञामाह, ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तत्पक्षे योजयतीत्येवं वृत्ते दूषणान्तरासम्भवात्, प्रतीपयोजने च भग्नरसत्वात् तूष्णीमेवासितुमुचितमिति तावत्येव भवति वचनविरतिनं शतसहस्रादिपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव प्रदर्शितवानाचार्यः । स चान्तेवासिनं बोधयितुमेवमुपादिक्षदनेन पथा प्रवर्तेत भवान् अन्येन मा प्रवर्तिष्टेति । वाच्यमुत्तरमतो निरवद्यं जातिवादिनमपि प्रति तज्ज्ञैः । कश्मलोत्तरगिरा न तु कार्या पक्षषट्कपरिकल्पनगोष्ठी ॥ कोऽर्थः ? साधकत्वं प्रतिषेधति न स्वरूपमिति । षष्ठेऽपि तथैवेत्यतः परं समानं तृतीयपञ्चमयोरिति सूत्रम् । 5 10 15 20 25
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy