________________
१७४ न्यायमञ्जयां
[ द्वादशम् निराकरणीयं न तु भवानपि चोर इति परः प्रतिपत्तव्य इति । (६) एवं पञ्चमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधत्ते, यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषोपादानोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये, हन्त तर्हि तवापि तदेव निग्रहस्थानमवतरति त्वमप्येवमकार्षीस्तथा हि द्वितीयपक्षस्थेन मया प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधेऽपि समानो दोष इति मय्येव प्रतीपमापीपदः । तदेवं त्वत्त एव शिक्षित्वाहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति । मम चेद् मतानुज्ञा, प्रथमतरं तवासौ भवेदिति । तदेतदाह, स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात्
समानो दोषः ॥ स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति (१), तल्लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः
(२), तमपेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इति 15 (३), उपपद्यमानः परपक्षे अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश
इत्ययमनैकान्तिकः प्रतिषेध इति (४), तस्मिन् सति पक्षकथितानकान्तिकत्वदोषाभ्युपगमात् तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति (६) षष्ठः पक्षः ।
सेयं षट्पक्षी । तस्यां प्रथमतृतीयपञ्चमाः स्थापनाहेतुवादिनः पक्षाः, 20 द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः ।
एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्तयमतानुज्ञादिदोषोपहतत्वादन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते । तथा हि चतुर्थषष्ठयोः पक्षयोरर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थे पक्षे परस्य समानदोषत्व
स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहार इति। स्वपक्षलक्षणेऽपेक्षोपपत्तिर्यस्य प्रति25 षेधेऽपि समानो दोष इति । अस्यानैकान्तिकत्वदोषस्य स्वपक्षणापेक्षोपपत्तिस्तस्योपसंहार
स्तथात्वेनोद्भावनम् । तस्य च हेतुनिर्देशः, इत्थमनैकान्तिकः प्रतिषेध इति । इत्थमिति