________________
आह्निकम् ]
जातिप्रकरणम् यदि तु तं क्रममपहायैव (३) तृतीयपक्षस्थोऽसौ वदति हेतोश्चेदनैकान्तिकत्वमुद्भावयसि अनैकान्तिकत्वादसाधकः स्यादिति, नन्वयं तावकः प्रतिषेधोऽप्यनैकान्तिकः किञ्चित् प्रतिषेधति, किञ्चिन्नेति हेतोः साधकत्वं प्रतिषेधति न स्वरूपमिति । अत एवेत्यं प्रतिषेधस्यानैकान्तिकता सोऽपि हि नाभिव्यक्तिपक्षमेव साधयेत् प्रतिपक्षेऽपि प्रयत्नासाफल्योपपत्ते- 5 रुभयत्रापि च विशेषहेतोरनपदेशात् । एवमनैकान्तिकत्वमभिहितवति साधनवादिनि प्रतिषेधवादिनोऽपि वचनावसर इत्यवतरति षटपक्षी । (४) स हि चतुर्थपक्षस्थ एवं वदति,
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥ विविधः प्रतिषेधो विप्रतिषेध इहोच्यते न व्याघातः, प्रकृतसङ्गतेर- 10 भावात् । योऽयं प्रतिषेधेऽपि समानानकान्तिकदोष उच्यते स प्रतिषेधप्रतिषेधेऽपि भवत्प्रयुक्ते समानः सोऽपि पूर्ववदनैकान्तिक एवेति । (५) ततः पञ्चमं पक्षमवलम्ब्य मूलसाधनवादी मतानुज्ञामुद्भावयति । सा च, प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसङ्गो 15
मतानुज्ञा ॥ · प्रतिषेधेऽपि समानदोष इति समुद्भावितं दोषमनुद्धृत्य तं प्रतिषेधं सदोषमभ्युपेत्य मदुक्त प्रतिषेधे विप्रतिषेधे समानदोषप्रसङ्गमापादयतस्ते मतानुज्ञानिग्रहस्थानं भवति । चोरो भवानित्यभियुक्तेन चौर्यमात्मनो
विविधः प्रतिषेधो विप्रतिषेध इति । अनित्यः शब्दः प्रयत्नान्तरोयकत्वादिति 20 स्थानवाद्युक्तः प्रथमः पक्षः, प्रयत्नकार्यानेकत्वादिति प्रतिषेधवाद्युक्तो द्वितीयः पक्षः, स च प्रतिषेधाख्यस्तस्यास्य प्रतिषेधस्य प्रतिषेधेऽपि समानो दोष इत्ययं तृतीयः पक्षो विप्रतिषेध इत्युच्यते, 'वि' शब्दश्चात्राविवक्षितार्थः । तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः इतिवत् । सोऽपि पूर्ववदनैकान्तिक एव । प्रतिषेधस्य साधकत्वं निषेधति न स्वरूपमित्यादिना।