________________
१७२ न्यायमञ्ज
[ द्वादशम् व्यक्तावहेतुत्वम्, न प्रयत्नतः शब्दमभिव्यनक्ति किन्त्वभूतप्रादुर्भावमेव विधत्ते, कस्माद् अनुपलब्धिकारणानुपलब्धः। यत्र हि सतः पदार्थस्य प्रयत्नोऽभिव्यक्तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानम्,
तदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते । शब्दस्य तु न किञ्चिदनुप5 लब्धिनिबन्धनं व्यवधानादि सम्भवतीति वर्णितमतस्तस्यासत एवात्मलाभनिमित्तमुच्चारणादिप्रयत्नो न सतो व्यक्तिनिमित्तम् । तस्मादनित्यः शब्द इति स्थितम् । पक्षप्रतिपक्षयोरसिद्धिसाधिका षट्पक्षी
तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवम॑ना शब्दानित्य10 त्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन
भवति । भगवता सूत्रकारेण इदमपरमिदानीमुपदिश्यते, चतुर्विंशतावपि जातिषु जातिवादिना प्रयुक्तासु मूलसाधनवादी विस्पष्टानुमानोदन्तपरीक्षणपुरःसरं सत्यमेवोत्तरं यथोपदिष्टमभिदधीत, न तु जातिप्रयोगानुकारिदुरुत्त
रालापचापलेन षटपक्षी प्रवर्तयेत । तस्यां हि प्रस्तुतायामुभयोरपि वादिप्रति15 वादिनोरसिद्धिरसद्वादित्वात् । कथं पुनः षट्पक्षी प्रवर्तत इति तत्पथं दर्शयितुमाह,
प्रतिषेधेऽपि समानो दोषः ॥ (१) स्थापनाहेतुवादिना प्रथमपक्षस्येन स्थापनाहेतुः प्रयुक्तः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति, (२) ततो जातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वादिति प्रयत्नानन्तरीयकत्वमभिव्यङ्ग्येऽपि शब्दे भवतीति हेतोरनैकान्तिकत्वमित्याह, (३) तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणानुपलब्धिक्रममनुस्मृत्य विशेषमुपदर्शयन्ननैकान्तिकतामुद्धरति ततस्तावत्येव पर्यवस्यति कथेति चतुर्थादिपक्षावसरविरहान्नावतरत्येव षट्षक्षी।
आम्रसेकपितृतर्पणन्यायेनेति । जातयोऽप्यवश्यं व्युत्पाद्याः व्युत्पादिताः, परोक्तदूषणाभासानि च सिद्धान्तसारभूते शब्दानित्यत्वसाधन उद्धर्तव्यान्युद्धतानीति ।