________________
आह्निकम् ]
जातिप्रकरणम् नित्यताञ्च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः । अथ निरधिकरणो धर्मः कथं स्याद् इति, तदुच्यते, अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव इत्यनर्थान्तरम् । अनित्यत्वादभाव इति तु व्यवहारमात्रम् । सा चेयमनित्यता शब्दावच्छिन्ना न शब्दाधिकरणा। न खलु धटाभावो घटाश्रितो भवितुमर्हति, भावस्वभावा हि धर्मा धाश्रिता भवन्ति नाभावः। 5 अभावस्त्वाश्रितोऽपि न प्रतियोग्याश्रितो भवति किन्त्वर्थान्तरवृत्ति प्रदेश इव घटाभाव इति । नित्यानित्यत्वविरोधाच्च, नित्यत्वमनित्यत्वञ्चैकत्र धर्मिणि विरुध्यते, तत् कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति । कार्यसमस्य लक्षणम्
प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर आह प्रयत्नस्य हि कार्यद्वैविध्यमुपलब्धं किञ्चिदसदेव प्रयत्नेन निर्वर्तते, यथा घटादिकम्, किञ्चित् सदेवावरणव्यपनयनादिना प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि । एवं 15 प्रयत्ननानात्वादिह प्रयत्नेनाविद्यमानः शब्दो निर्वात घटवत्, उत विद्यमान एवाभिव्यज्येत मृदन्तरितसलिलादिवदिति संशयः । न चेयं संशयसमा जातिहेत्वर्थविकल्पनेनेह प्रत्यवस्थानात्, तत्र हि निरवयवत्वाद्याकाशसाधोपन्यासेन संशय आपादितः, इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जातीनां वैचित्र्यकारणमित्युक्तमेव । अत्रोदाहरणम्,
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणानुपपत्तेः ॥ यद्यपि प्रयत्नकार्यान्यत्वमुपलभ्यते तथापि प्रकृते शब्दे प्रयत्नस्याभि
अनित्यत्वादभाव इति तु व्यवहारमात्रमिति । असत्यपि भेदे राहोः शिर इतिवदिति भावः । घटाभाव इति नास्माद् व्यपदेशादाश्रयाश्रयिभावः सिद्धयति, प्राग्वद् 25 व्यवहारमात्रत्वादस्येति तात्पर्यम् ।
20