________________
5
10
20
१७०
न्यायमञ्जय
साधर्म्यं प्रतिज्ञाद्यवयवयोगित्वमिति । किञ्च,
25
[ द्वादशम्
दृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा भावान्नाविशेषः ||
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः 11
अनित्यत्वसाध्यधर्म स्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रतिषेधः । अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिदमनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत् कदा15 चित् प्रच्यवते तत्प्रच्युतेर्नित्यः शब्दः अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात् तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति ।
अस्योत्तरम्,
न हि साधर्म्यमात्रं साधनं भवति, अपि तु दृष्टान्तर्धामण्यवधृतसामर्थ्यं साधर्म्यं वैधम्र्म्यं वा तथाविधं चेत् सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः, नास्ति चेत् कोऽयमतिप्रसङ्गः ? न हि दृष्टान्तधर्मणि प्रज्ञातसामर्थ्यं साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति, तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासम्भवान्न सर्वानित्यत्वम् । अविशेषसमायां जातौ यत् साधनमुक्तं तदिहापि वक्तव्यमिति ।
नित्यसमस्य लक्षणम्
प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
प्रतिषेध्ये नित्यमनित्यत्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तेश्च तत्प्रतिषेधो नोपपद्यते, नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि, वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः ।
अविशेषसमायां च यः समाधिरुक्तः क्वचिद्धर्मानुपपत्तेरित्यादि ।
अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यत इति । नानित्यः शब्द इत्येवंरूपः
प्रतिषेधः ।