________________
आह्निकम् ]
जातिप्रकरणम् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत्, नोपलभ्यते च शब्दस्यावरणं मूलोदकादेरिव मृत्तिकेत्यनुपलम्भान्नास्तीति गम्यते । अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः, स आवरणस्यैव भावं गमयति नानुलब्धेरित्यनुपलब्धेर्भावादावरणमेव नास्तीति ।
ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम् ॥ ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि, स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति । सा चेयमावरणानुपलब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मलोदकादेरिति । तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभाव- 10 योरपि प्रत्यक्षत्वादपर्यनुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति । तस्मात् प्रागुच्चारणादसन्नेव शब्द इति सिद्धम् । अनित्यसमस्य लक्षणम्
साधात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः । अनित्येन 15 घटेन साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः । अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात् सर्वभावानामविशेष आपादित इह तु घटसाधादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ।
20 अत्रोत्तरम्, ___साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥
अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति । यदि च घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवाक्यसाधर्म्यात् । अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन 25
अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्यमिति । प्रतिज्ञाद्यवयव
न्या० म० २२