________________
१६८
न्यायमञ्जर्यों
- [द्वादशम् पुनरनित्यत्वं प्रयत्नानन्तरीयकत्वेन । यत् प्रयत्नानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु यदनित्यं तत् प्रयत्नानन्तरीयकमिति । यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्राग्निरिति । एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे विद्युदादौ वा येयमनित्यतोपलब्धिर्न सा तस्य हेतुतामपहन्तीति । अपि च प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं नियम्यते प्रयत्न एवेति । तत्र पवननोदनजनिततरुशब्दवत् सत्यपि प्रयत्ने कारणान्तरं तदुत्पादकम्भविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्यदादौ वा न विरुद्धमिति । कथं पुनरिदमेव गम्यते प्रयत्नादिभिर
सन्नुत्पाद्यते शब्दो न पुनः सन्नभिव्यज्यत इति ? सतोऽनुपलब्धौ निमित्ताभावाद् 10 आवरणं निमित्तमिति चेत्, न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावर
णस्याग्रहणात् । तस्मान्न मूलोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियत इति ।
अनुपलब्धिसमस्य लक्षणम् तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः
प्रतिषेधः ॥ यदुक्तमावरणानुपलम्भादसत्याच्चानुपलम्भादसत्यावरणे प्रागुच्चारणादसन्नेव शब्दः प्रयत्नेनाभिनिवर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुपलम्भात्तस्याश्चानुपलम्भादभावः, अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन
विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्या20 ग्रहणं नासत्त्वकृतमित्यभिव्यञ्जकत्वकृतमेवास्य प्रयत्नादि कारणमिति । अस्योत्तरम्,
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ।। आवरणानुपलब्धिर्नास्त्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुपलम्भस्वभावत्वादनुपलब्धरुपलम्भप्रतिषेधार्थकत्वादित्यर्थः । अस्तित्वनास्तित्वे 23 हि भावानामुपलम्भानुपलम्भाभ्यामवस्थाप्ये यदुपलभ्यते तदस्ति शशवद्