SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] संशयप्रकरणम् १६७ नित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः । ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिर्न भेदान्तरम् । मैवम्, उद्भावनप्रकारेण भेदात् परपक्षोपमर्दबुद्ध्या साधादिसमा जातिः प्रयुज्यते 5 पक्षान्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति । अत्रोत्तरम्, उपपत्तिकारणानुज्ञानादप्रतिषेधः ॥ उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता 10 भवति । सा चेदन ज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः । उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम् । व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्, समानो व्याघातः, तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत एव । न हि व्याघात एक पक्षं साधयत्येकं बाधत इति । 15 उपलब्धिसमस्य लक्षणम् निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥ . यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावेऽपि प्रबलप्रभजनजवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वमन्यत्रापि विद्युदादौ विनापि प्रयत्नानन्तरीयकत्वमुपलभ्यत 20 एवानित्यतेति । अत्रोत्तरम्, ___कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः॥ अत्रैतावदेव तावद् वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम्, न च सपक्षैकदेशवृत्तिरगमकः । प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न 25
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy