________________
१६६
न्यायमञ्जल्
[ द्वादशम्
10
अविशेषसमस्य लक्षणम् एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः ॥
अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः । यदि शब्दघटयोरेकधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते, तर्हि 5 सर्वभावानामविशेषप्रसङ्गः, कथम् ? सद्भावोपपत्तेः । सत्तासम्बन्धादित्यर्थः । सोऽयमविशेषसमः प्रतिषेधः ।
एतस्योत्तरम्, क्वचित् तद्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः ।।
क्वचिदविशेषापादनहेतुरुपपद्यते धर्मः, क्वचित् तु नोपपद्यत इत्येवमयमप्रतिषेधः । शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोर्धर्मान्तरमविशेषरूपमुपपद्यते, न तु सर्वभावानामीदृशमविशेषकारणं धर्मजातमस्ति । यत्तु सद्भावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत ? अनित्यत्वमेवं चेत्, त_यं प्रतिज्ञार्थो व्यवतिष्ठेतानित्याः सर्वे भावाः सत्त्वा
दिति । न चायमनुपपत्तेदृष्टान्तानुपपत्तेः सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो 15 न कश्चिदवशिष्यते ।
न च प्रतिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धसाध्यभेदात् । साध्यः प्रतिज्ञातोऽर्थो भवति, सिद्धश्च दृष्टान्तः । न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामर्थ्यमश्नुते । न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तितमनित्येष्वेव प्रतिष्ठां लभते । यैव विपक्षाद् व्यावृत्तिः, स एव साध्येनानुगम इति वक्तव्यम्, तन्नीतेः प्रागेव प्रतिक्षेपात् । प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति । किञ्चिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किञ्चिन्नित्यमिति । नायमेकान्तः सत्त्वादनित्याः सर्वभावा इति । अपि च सर्वभावानामनित्यत्वे साध्यमाने तदन्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं
भवेदित्येवमप्ययमप्रतिषेधः । 25 उपपत्तिसमस्य लक्षणम्
उभयकारणोपपत्तेरुपपत्तिसमः ॥ उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यद्य