________________
आह्निकम् ]
जातिप्रकरणम् प्रतिषेधे च तुल्योऽयमनुयोग इत्याह,
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ प्रतिषेधोऽपि प्रतिषेध्यात् पूर्वं पश्चात् सह वा भवेदिति विकल्प्यमाने न प्रतिषेध्यं प्रतिषेधुमुत्सहत इति। अर्थापत्तिसमस्य लक्षणम्
अर्थापत्तितः प्रतिपक्ष सिद्धरापत्तिसमः ॥ अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः . प्रतिषेधोऽर्थापत्तिसमो भवति । पूर्वस्मिन्नेव प्रयोगे यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दः, अर्थादापद्यते आकाशसाधान्नित्य इति । अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति । उद्भावनप्रकारभेदाच्च जातिभेद 10 इत्युक्तम् ।
अस्योत्तरम्,
__अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥
अनुपपादितसाधनमनुक्तमादापद्यत इति वदतः पक्षहानिरप्युपपद्यते, मामकानित्यपक्षसिद्धौ हि सत्यामर्यादापद्यते तावकस्य नित्यपक्षस्य हानिरिति। 15
दोषान्तरमाह, - अनैकान्तिकत्वाच्चार्थापत्तेः ।।
उभयपक्षसमर्थेयमापत्तिः, विपर्ययेणापि प्रयोक्तुं शक्यत्वात् । नित्यः शब्दो निरवयवत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधान्निरवयवत्वान्नित्यः शब्दः, अर्थादापद्यते यदनित्यघटादिसाधात् प्रयत्नानन्तरीय- 20 कत्वादनित्य इति । न चैवमपि काचिदर्थसिद्धिः । न खलु वै घनस्य ग्राव्णः पतनमित्युक्तेऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति ।
अर्थादापद्यते आकाशसाधान्नित्य इति । ननु साधर्म्यसमाभ्योऽस्याः को भेद इत्याह उद्भावनप्रकारभेदाच्चेति ।