________________
१६४
न्यायमञ्जा
[ द्वादशम् तदिह प्रकरणमुत्थापयता भवतोभयसाधर्म्यं तदुत्थापनकारणमभिहितमुभयसाधात् प्रक्रियासिद्धेरिति ब्रुवता। उभयसाधर्म्यञ्च मदुक्तमपि साधर्म्यमस्त्येव, अन्यथोभयपदार्थः कः ? एवञ्च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते, प्रतिषेधोपपत्तौ वा नोभयसाधर्म्य प्रकरणकारणं सिध्यतीति । निर्णयोत्पत्तिनिमित्तञ्च प्रकरणोपरमाय न किञ्चिदुक्तमुभयसाधाभिधानादिति । अहेतुसमस्य लक्षणम्
काल्यानुपपत्तेहेंतोरहेतुसमः ॥ कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधोऽहेतुसमो भवति । 10 हेतुः साधनम्, साधनञ्च साध्यात् पूर्वं साधनम्, तदसति साध्ये कस्य
साधनम् ? अथ पश्चाद्, असति साधने कस्येदं साध्यम् ? अथ युगपत् साध्यसाधने भवतः, न तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतोर्न विशिष्यते ।
अस्योत्तरम्, 15
न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः ।। न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः । उत्पत्तौ तावदयमपर्यनुयोगः, पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनोऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् । 'बुद्धिसिद्धन्तु तदसत्' इति ज्ञप्तावपि परिहृत एष
दोषः, उपलब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहभावनियमाद् यथादर्शनं 20 व्यवस्थेति प्रमाणपरीक्षायामभिधानात् । दृश्यते च निवर्तनहेतुना निर्वर्तनीयस्य
निर्वृत्तिरुपलब्धिहेतुना चोपलभ्यस्योपलम्भ इति, प्रमाणसिद्धे वस्तुनि कोऽयमाक्षेपः ?
तदिह प्रकरणमुत्थापयता भवतेति । प्रकरणं प्रतिपक्षः। निर्णयोत्पत्तिनिमित्त प्रकरणोपरमायेति । एवं हि प्रतिषेधः सिद्धयति यद्येकतरपक्षनिर्णये व्यवस्थितं प्रकरणं 25 भवति, न च निर्णयनिमित्तं किञ्चिदुक्तम्; उभयसाधाभिधानाद्धि संशयो भवति न
निर्णय इत्यर्थः।