________________
आह्निकम् ] जातिप्रकरणम्
१६३ नित्यत्वं सामान्यगतं संशयकारणमिति नाभ्युपगम्यते । तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशयापादनरूपः । प्रकरणसमस्य लक्षणम्
___ उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः॥ पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ । तावेव प्रकरणम्। प्रकरणमनति- 5 वर्तमानः प्रकरणसमः प्रतिषेधो भवति । पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयवत्वादाकाशवदित्येवञ्जातीयकं प्रतिप्रयोगमुपन्यस्यन् स्वपक्षमुत्थापयति जातिवादी। साधर्म्यग्रहणञ्चोपलक्षणं वैधhणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवति उभयवैधात् प्रक्रियासिद्धेः प्रकरणसम इति । मूलहेतावपि साधर्येण वैधhण वा प्रयुक्त प्रयोगद्वयमेतद्वेदितव्यम् । 10
ननु ते एवैते साधर्म्यवैध→समे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्यमानत्वाच्च तवोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवोऽयं जातिप्रयोगः । चतस्रश्चैता जातय इत्येकत्वमपि न सङ्गतम्।
उच्यते, तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधनच्छाययेति, अत एव प्रकरणसमोऽयं जातिरनित्यपक्षवन्नित्यपक्षोऽपि 15 प्रतिक्रियतेऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिभेदत्वम् वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।।
अत्रोत्तरम, प्रतिपक्षात् प्रकरणसिद्धः प्रतिषेधानुपपत्तिःप्रतिपक्षोपपत्तेः॥ निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति, प्रागुक्तनिर्णयात् तदवस्थानमेव । 20
उभयसाधात् प्रक्रियासिद्धेरिति । उभयेन नित्येनानित्येन च साधर्म्यात् प्रतिपक्षपक्षयोः प्रवृत्तिः प्रक्रिया। प्रकरणमनतिवर्तमान इति । निर्णयोत्पत्तौ प्रकरण निवृत्तिभर्वति, प्रतिपक्षहेतौ च सति कुतो निर्णय इति । मूलहेतावपि साफेणेति । यदा स्थापनावाद्येष साधर्म्यमात्रे नित्यः शब्दोऽस्पर्शत्वादाकाशवदिति मूलहेतुत्वेन प्रयुङ्क्ते तदापि अनित्यः शब्दः प्रयत्नान्तरीयकत्वादित्यादि प्रयोक्तव्यमित्यर्थः ।
.
..
25