________________
१६२
न्यायमञ्जऱ्यां
[द्वादशम
शब्दस्य बलान्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्याभावादित्यर्थः । तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति । अस्योत्तरम्,
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ शब्दाख्यमिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते, तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत ? उत्पन्नस्य चास्य तथाभावो भवति . नानुत्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति प्रागुत्पत्तेरलब्धात्मनः
किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसभावाद10 युक्त एवायं प्रतिषेधः । संशयसमस्य लक्षणम्
_ नित्यानित्यत्वसाधात् संशयसमः ॥ - नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः
प्रतिषेधः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति 15 शब्दस्य नित्यसाधर्म्यम्, प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधा
दैन्द्रियकत्वान्नित्य इति संशयः, एवं परः प्रत्यवतिष्ठते । न च साधर्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति ।
अस्योत्तरम्, साधात् संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयो
नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः॥ स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधादूर्ध्वत्वादेः संशयो भवति, न तु शिरःपाण्यादिवैधात् प्रत्युत ततोऽसौ निवर्त्तते । यदि पुनरुभयथापि साधादिव वैधादपि संशयः स्यात् तथा सत्यनन्तसंशयः प्राप्नोति । इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति
25..
प्रागुत्पत्तेरलब्धात्मनः किमुद्दिश्यते किमुच्यते । नास्त्यत्र विमतिरित्यर्थः ।