________________
आह्निकम् ] जातिप्रकरणम्
१६१ अत्र प्रसङ्गसमस्य तावदुत्तरमाह,
प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीपदर्शनार्थं दीपान्तरपरम्परामाहरन्तीति । अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः । एवं 5 लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात् तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमस्योत्तरम्,
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो- 10 ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति । न चासौ विशेषे हेतुरुच्यते, तस्मान्नं प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति । प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तम् अतो न हेतुर्दृष्टान्तः । ____ अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूद्, इत्यनया 15 नीत्या प्रत्यवतिष्ठसे, हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथितमिति । तस्मिन्नसाधके दृष्टान्त एव साधक इति । अनुत्पत्तिसमस्य लक्षणम्
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ __अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः । प्राक्तन एव प्रयोगे 20 जातिवाद्याह 'अनित्यः' इत्युत्पत्तिधर्मक उच्यते । यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम्, अनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्व धर्मः क्व वर्तताम्, अलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयतु, असिद्धे चानित्यत्वे
यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेरिति । यस्य व्याख्यानं पूर्वमुत्पत्त्या भवतिव्यमिति ।
न्या० म०२१