________________
न्यायमञ्जल्
[ द्वादशम् प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते पर आह सोऽयं हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः । अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात्, न-ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति । अनयोरुत्तरम्,
घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ नायं प्रतिषेध उपपद्यते, उभयथापि कारणस्य भावदर्शनात् । दण्डचक्रसूत्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, दृश्यन्ते अभिचारकर्मणा
च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति । 10 प्रसङ्गप्रतिदृष्टान्तसमयोलक्षणे दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसङ्गप्रतिदृष्टान्तसमौ ॥ अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । पूर्वोदाहृत एव हेतौ यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्वे इदानीं कि 15 साधनं तत्साधने किमिति। दृष्टान्तस्य घटादेरनित्यतायां कारणं किञ्चि
दुपदिश्यते, तेन तत्कारणान्वेषणातिप्रसङ्गात् प्रसङ्गसमोऽयं प्रतिषेधः । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः ।
__ यथा घट: प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्त
रीयकं नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति । कः पुनराकाशस्य 20 प्रयत्नानन्तरीयकत्वं वदेत् कूपखननादिना अवकाशकरणं मन्वान एवं ब्रयादपि कश्चित् ।
नन्वेवमपि व्यभिचारोद्भावनमेतत् सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः ? नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी
प्रत्यवतिष्ठते; अपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जाति25 प्रयोग एवायम् । हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना
प्रदर्यमाना जातितां प्रतिपद्यन्त एव ।