________________
आह्निकम् ] जातिप्रकरणम्
१५९ परश्वधादि, एवं प्रयत्नानन्तरीयकं किञ्चिदनित्यं भविष्यति घटादि, किञ्चिन्नित्यं शब्दादीति ।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः प्रतिषेधः। यदि यथा घटस्तथा शब्दः, प्राप्तं तर्हि यथा शब्दस्तथा घट इति । शब्दश्चानित्यतया साध्य इति घटोऽपि साध्य एव स्यात्, अन्यथा हि न तेन 5 तुल्यो भवेदिति ।
अत्र पञ्चानामुत्तरम्, ___ किञ्चित्साधादुपसंहारसिद्धेवैधादप्रतिषेधः ॥
किञ्चित्साधादुपसंहारः सिध्यति, यथा गौरवमयं गवय इति । न तु सर्वथा रूपाभेदस्तयोः कर्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे- 10 तररूपसङ्करस्य कर्तुमशक्यत्वात् । एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्यमुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता. वैधर्म्यञ्च किश्चिदभिदधता प्रतिषेधः कर्तुं लभ्यत इति । अथ षष्ठस्योत्तरम्,
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ यदुच्यते, घटोऽपि शब्दवत् साध्यो भवत्विति, तन्नैवम्। 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः । तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दोऽपीति । एवं साध्यातिदेशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते । प्राप्त्यप्राप्तिसमयोर्लक्षणे प्राप्य साध्यमप्राप्य वा हेतोःप्राप्त्याविशिष्टत्वादप्राप्त्यासाधक
- त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ
तेनाविपरीततया शब्दोऽतिदिश्यत इति । तेन दृष्टान्तेनाविपरीततया तुल्यतया यथा घटस्तथा शब्द इत्यतिदिश्यते ।
20
25