SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ न्यायमञ्जऱ्यां [ द्वादशम् स्थापनहेतोरविशेषः । विशिष्टन्तु साधर्म्य वैधयं वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्थानैरुपहन्यते । यथा सत्यपि सत्तादिसामान्यसम्बन्धे, सत्यपि शुक्लादिगुणसम्बन्धे, सत्यपि चलनादिकर्मयोगेन गौस्तथा तत्साधात् सिध्यति अश्वादिवैधाद् वा किन्त्वव्यभिचारिणो गोत्वादिसम्बन्धादेव । तथेहाप्यस्खलितनियमं साधर्म्य वैधयं वा साध्यसिद्धिनिबन्धनम्, न साधादिमात्रमिति । उत्कर्षसमादीनां षण्णां लक्षणानि साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वावर्ण्य विकल्पसाध्यसमाः ॥ दृष्टान्तधर्मं साध्ये धर्मिणि योजयन्नसन्तमध्यारोपयन्ननुत्कर्षेण प्रत्यवस्थानं यत्करोति स उत्कर्षसमः प्रतिषेधः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद्, अनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु, न चेन्मर्तो घटवदनित्योऽपि तद्धर्मो मा भूदिति मूर्तस्य धर्मान्तरस्य प्रसञ्जनमुत्कर्षः । दृष्टान्तधर्मविकल्पेनैव साध्यमिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यव15 स्थानमपकर्षसमः । पूर्वस्मिन्नेव प्रयोगे शब्दः खलु प्रयत्नानन्तरीयकत्वाद श्रावणोऽस्तु, न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्यापसरणमपकर्षः । ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः, तद्विपर्ययादवर्ण्यः सिद्धो दृष्टान्तधर्मः । तावेतौ वर्ष्यावर्ण्यसमौ प्रतिषेधौ भवतः । यदि शब्दो नित्यत्वेन 20 वर्ण्यते साध्यते घटोऽपि वर्ण्यतामिति वर्ण्यसमः । घटश्चेन्न वर्ण्यते शब्दोऽपि मा वर्णीत्यवर्ण्यसमः । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः । तत्रैव प्रयोगे प्रयत्नानन्तरीयकं किञ्चिन्मृदु दृष्टं दुकूलराङ्कवशय्यादि, किञ्चित् कठिनं कर्पर चलनादिकर्मयोगेन गौस्तथात्वेन तत्साधात् सिध्यतीति । गौरयं चलत्वाद् 25 बाहुलेयवदित्यादि।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy