________________
आह्निकम् ] जातिप्रकरणम्
१५७ इत्येवं सर्वत्र योज्यम् । स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम् । जातिवादी ह्येवं वदति यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति न भवतीति, अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् । साधर्म्यवैध→समयोर्लक्षणे
अथ विशेषलक्षणान्याह । तत्र, साधम्यंवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ।।
प्रतिषेधापेक्षया पुंल्लिङ्गनिर्देश इति तत्र द्रष्टव्यम् । साधर्म्यण वैधhण वा साधनमभिधाय सिधाययिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मविपर्ययोपपादनाय साधर्म्यण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । तत्रैव साधर्म्यण वैधर्येण वोपसंहारे तथैव वैधये॒ण 10 प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः ।
उदाहरणन्तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इति साधर्म्यण हेतौ प्रयुक्ते जातिवादी साधर्मेणैव प्रत्यवतिष्ठते, नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकाशादि नित्यं दृष्टमिति । न चात्र विशेषहेतुरस्ति घटसाधात् प्रयत्नानन्तरीयकत्वादनित्यः 15 शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति । वैधर्म्यहेतावपि साधनादिना प्रयुक्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति, तत् प्रयत्नानन्तरीयकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्वयमुदाहर्तव्यमिति ।
यथा च क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूप- 20 व्युत्पादनमुपक्रान्तम्, एवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह,
गोत्वाद् गोसिद्धिवत् तत्सिद्धिः॥ साधयंवैधय॑योरिदमुत्तरम् । यदि साधर्म्यमात्रं वैधर्म्यमानं वा साध्यसाधनं प्रतिज्ञायेत स्यादियमव्यवस्था, भवेच्च भवत्प्रयुक्तानामीदृशामपि 25