________________
१५६
न्यायमञ्जय
[ द्वादशम्
तदभावादेव भवतु, साधनाभासे वा प्रमादादिना वेति कोऽत्र विशेष: ? मुमुक्षोस्तु ज्ञाततत्त्वस्य यत् प्रतिकूलवादिना केनचिदाक्षिप्तस्य तत्प्रयुक्ते तत्त्वप्रतिक्षेपबलात् साधनाभास एव सम्यग् दूषणमपश्यतो जातिप्रयोगावसरः । ज्ञात्वापि साधनाभासतां यथा तथा सत्वरमेव निर्भर्त्स्यतामयं दुराचार इति 5 पार्श्वस्थितसुकुमारमतिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः । मुमुक्षं प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः । अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् । लाभादिकामानान्तु सम्यक्साधनेऽपि प्रयुक्ते युक्त एव जात्याद्युपक्रमः । इतरथा हि निःसंशय एव पराजयः स्यादित्येतच्चानु10 षङ्गिकं प्रयोजनमित्युक्तम् ।
यत् पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यत इति, तदप्यसत्, तस्यात्यन्तमलौकिकत्वात् । लोको हि तदैवं मन्यते, नूनमेष न जानाति वक्तुं सदृशमुत्तरम् । अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत् कथम् || खेदयेद् वादिनं यस्तु हस्तपादादिचापलैः । स संसद्युच्यते सद्भिर्भण्ड एव न पण्डितः ॥ जात्योपक्रममाणस्तु न तथैव विहस्यते । न हि सन्दूषणच्छाया तत्रात्यन्तमसङ्गता ॥ तन्न कौपीनवसनापासनादिसाम्यं जात्युत्तराणामिति । यत्तु कस्तैः
20 प्रत्याय्यत इति, न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः । सन्ति हि मध्यमदशावर्तनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन ।
यत् पुनरसदुत्तराणामानन्त्यात् कथं चतुर्विंशतिसंख्येति, तत्राप्युच्यते, सत्यप्यानन्त्ये जातीनामसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपर्वाणितं न तू तत्संख्यानियमः कृत इति ।
15
25
तदत्र साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोस्तत्साधर्म्यसमा जातिः । सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते । वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती