________________
२५५
आह्निकम् ]
जातिप्रकरणम् किञ्चित्कार्यकरत्वात्, न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति ।
अथ एकान्तपराजयाद्वरं सन्देह इति ताभिरुपक्रमते, तत्रापि स तथोपक्रममाणः कमिव प्रत्याययेत् ? नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिवदितुमपारयन् किमप्यालजालमालपितुं प्रवृत्त इति । शाकटिकादिप्रत्यायनार्थं 5 तु प्रत्यन्तगह्वरजनपदेषु ग्राम्यसदसि लाभादिकामस्य कस्यचित् प्रयोजनवद् भवेदपि कदाचित्, न तु मोक्षशास्त्रे तथाविधोपदेशः पेशल इति ।
अत्राभिधीयते, समाहितमेतद् भगवता सूत्रकारेणैव 'तत्त्वाध्यवसायसंरक्षणार्थं कण्टकशाखापरिवरणवत्' इति वदता । जल्पवितण्डाङ्गभूतानि च च्छलादीनि । तदुक्तम्, 'छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः' इति । 10 भाष्यकृदप्याह 'छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम्, उपलक्षितानां स्ववाक्ये परिवर्जनं परवाक्ये च पर्यनुयोगः, जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः, स्वयञ्च सुकरः प्रयोगः' इति । यदा हि मुमुक्षोरागमाद् वा युक्तितो वा तत्त्वज्ञानमुत्पन्नम् । न चाद्यापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते, तस्यामवस्थायां यदि केनचित् किमप्य- 15 नुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ विदितयुक्तयागमगौरवोऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसम्भावनालेशमिवाधिगच्छेत्, तस्मिन् वा दृढप्रत्ययेऽपि तत्पावर्तिनः शिथिलास्था भवेयुः । अतो झगिति स दूषणमपश्यन् प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीतेत्युक्तं जल्पलक्षणे । परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफलं जाति-20 व्युत्पादनम्। यथा क्वचिदचिरव्युप्तसस्ये सम्प्रत्युद्भिद्यमानकोमलाङकुरनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रुततरगामिनो यतः कुतश्चन चतुष्पदाद् द्विपदाद् वाभिशक्यत इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखासन्ततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्द्वारकं तत्त्वाध्यवसायसंरक्षणं कर्तव्यम् ।
25 यत्तु विकल्पितं क्व जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यते, सम्यग् दूषणमपश्यता किल जात्यादि प्रयोक्तव्यम्, तच्च सम्यक्साधने