________________
5
15
20
१५४
न्यायमञ्जय
[ द्वादशम्
विवक्षितं तद्वैधर्म्यं वा, साधर्म्यादिमात्रन्तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ।
अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः । विशेषलक्षणसूत्रेषु पुनः 10 प्रायेण पुंल्लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षा तेषु व्याख्येय इति
तद्व्याख्यानावसर एव वक्ष्यामः ।
25
जातिविभागः
अथ भेदवत्त्वाज्जातश्चतुर्विंशतिधा विभागमाह,
साधर्म्यवैधम्र्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्य प्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशय प्रकरण हेत्वर्थापत्त्य विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥
जातिव्युत्पादनस्य शास्त्राङ्गत्वपरीक्षा
नन्वास्तां तावद्विशेषलक्षणवर्णनम्, इदमेव त्वादौ चिन्त्यतां किमर्थ - मेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते ?
एवम्प्रकाराणाञ्च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणो
कथमिति मनसि
पेक्षणीयानामसदुत्तराणामानन्त्याच्चतुर्विंशतिसंख्यापि महान् विस्मयोऽस्माकम् ।
यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयङ्गमम्, असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात् ।
अथ विकटाटोपप्रकटनपाटवोपहितापरसम्मोहनद्वारेण तद्रक्षणमास्थीयते ? तर्हि ष्ठीवितहसितांसमर्दनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षविद्यायाम् ।
तथापि चेदं विचार्यतां क्व जातिप्रयोगः प्रत्यवस्थेयम् । सम्यक्साधने परेण प्रयुक्ते तदाभासे वा ? न तावत् साधनाभासे, तस्य हि येन निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च परः पराजीयते । नापि सम्यक्साधने, तत्र प्रयुक्तानामपि तासाम