________________
द्वादशमाह्निकम्
जातिप्रकरणम् जातिलक्षणम् छलानन्तरं जातेरुद्देशात् तस्याः सामान्यलक्षणं तावदाह,
साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥ अत्र त्रैकाल्यसमादिसकलविशेषसङ्ग्रहाय साधर्म्यवैधादिनिरपेक्षमेव 'प्रत्यवस्थान' पदं जातिसामान्यलक्षणप्रतिपादकमाहुः । प्रतीपमवस्थानं प्रत्य- 5 वस्थानम्, तावन्मात्रमेव च यत्किञ्चिदुत्तरं परप्रयुक्त हेतौ जायमानत्वाज्जातिरित्यभिधीयते ।
तदनुपपन्नम्, प्रत्यवस्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जातितामश्नवीत । ___ अथ तस्य सम्यगुत्तरत्वादिह च निविशेषणप्रत्यवस्थानमात्रोपपादनात् 10 फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते । तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव, तद्व्युदासाय तु तदन्यत्वे सतीत्यादिकं यदि किञ्चिदध्याह्रियते तदमुष्य श्रूयमाणस्य साधर्म्यण वैधhण वा प्रत्यवस्थानमस्तीति नैष दोषः । साधर्म्यवैधाभ्यामित्यसमासकरणेन दिक्प्रदर्शनस्य सूचनात् । साधर्म्यण वैधhण वा कथमेष हेतुर्हेतूभवतीति वा, किमनेन क्रियत इति वा, 15 यदेवंप्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमाने सकलविशेषसङ्ग्रहः, त्रैकाल्यसमादिष्वपियादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वात् । न ह्यु दाहरणसाधर्म्य साध्यसाधनमिह
अथ जातिलक्षणे त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वादिति । अहेतुः कालत्रयेऽप्यसाधकः, एवमस्य कालत्रयेऽप्यसाध- 20 कत्वादहेतुसाधर्म्यमिति भाष्यकृता प्रथम साधनाभास एव जात्युत्तरोदाहरणं दर्शितमिति। "तेन हि क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्ट क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा।” इतिजात्युदाहरणरूपं स्थापनावाद्युदाहरणमुक्तम् ।
न्या० म० २०