Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 210
________________ आह्निकम् ] स्थाननिग्रहप्रकरणम् १८७ ननु गुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति । निरर्थकस्य लक्षणम् वर्णक्रमनिर्देशवन्निरर्थकम् ॥ अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति । 5 अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम् । इदमपि वादिप्रतिवादिनोः प्रकृताननगुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रम साधनं दूषणञ्च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् । ___ अत्राह, सोऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तः, न ह्यनुन्मत्तानामीदृश्यक्षराणि मुखान्निर्गच्छन्ति । ईदृशाञ्च निर्देशे कपोलवादित्रकक्ष्याभि- 10 ताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् । अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश एष सूत्रे वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्वं वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहणिकाः प्रस्तूयेरन् । अथानर्थकक्रमनिर्देशयुक्तमिति व्याख्यायते तथापि नियमानुपपत्तिः । न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव, वर्णक्रमनिर्देशस्यापि च क्वचित् 15 प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत् । वतिपक्षे तु भवति दिक्प्रदर्शनमेतत्, किन्त्वर्थान्तरेणैव गतार्थत्वात् पृथङ् न वक्तव्यम् । . अत्रोच्यते, मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम् । अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति । एष एव चार्थान्तरादस्य विशेषः । तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः, इह त्वभिधेयमेव नास्तीति । यत्र 20 क्वचित् प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम्, उदाहरणं यदि स्फुटं पृच्छसि, न कुप्यसि चेत्, तद् भवदीयं सर्वमेव वचनमिहोदाके बौद्धाः ? ये बुद्धस्य भगवतः शासनमभ्युपेताः। को बुद्धो भगवान् ? यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः । कः पुनर्भदन्तः अश्वघोषः ? यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च राष्ट्रपालं नाम नाटकम् इति, प्रसङ्गं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार 25 इत्यादिकं पठेन्नृत्येच्च ।”

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240