Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 208
________________ १८५ आह्निकम् ] स्थाननिग्रहप्रकरणम् तादृशमेव स्वाश्रयव्यङ्गयत्वादिति मुह्यतो नातिस्थूलममुमीदृशं प्रमादम् प्रतिपन्नस्य भवत्येव निग्रहः । अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा। यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनैकान्तिकत्वेनैवासौ निगृह्यते, स्यादेतदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तूष्णीमेवासीत । तथाविधन्तु ब्रुवाणस्तस्यैव पराजयहेतोः सन्निकृष्टत्वात् । तैरेव निगृहीतो भवति नानैकान्तिकप्रयोगेणेति । हेत्वन्तरस्य लक्षणम् अविशेषोक्ते हेतौ प्रतिषिद्धं विशेषमिच्छतो हेत्वन्तरम् ॥ अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति । यथा सांख्यस्येत्थं वदतः, एकप्रकृतीदं व्यक्तं परिमाणाद् 10 घटादिवत्, विविधञ्च परिमाणं विकारेषु दृष्टमियत्तालक्षणमङकुरादेः फलान्तरस्य चतुरश्रिता च पटादेः मृत्पूर्वकस्य । तदेतत् परिमितं निराकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति, या च सैका प्रकृतिस्तत् प्रधानमिति । अस्य हेतोय॑भिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति । तत्परिजिहीर्षया विशेषणमाह समन्वयादिति । सुखदुःखमोह- 15 समन्वितं हि सर्वं व्यक्तं परिमितं दृश्यत इति, तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतित्वमिति । तदिदं त्वन्तरं निग्रहस्थानं प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति । अत्राह, किमयं दग्धो दह्यते मृतो वा मार्यते । अनैकान्तिकहेतूपन्यासेनैव खल्वयं तपस्वी निगृहीतः, असाधनाङ्गवचनादिति किं हेत्वन्तराख्यनिग्रह- 20 स्थानान्तरोदीरणेनेति । अत्रोच्यते, युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह । यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाभिधातुं प्रवृत्त प्रकृत्यन्तररूपसमन्वयाभावादिति । सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम् । विशेषणमाह समन्वयादिति । एकप्रकृतिसमन्वये सति 25 विकाराणां परिमाणादिति सविशेषगो हेतुः । न्या० म. २४

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240