Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 206
________________ आह्निकम् ] निग्रहस्थानप्रकरणम् १८३ निर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु यदि तदसम्भव उच्यते तहि हेत्वाभासव्याकरणमप्यकरणीयं भवेत्, पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयोगवत्तु तथाविधमप्यभिधानं सम्भवत्येव । यत् पुनरभ्यधायि सम्भवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरो भवेन्न दूषणान्तरम् इति । तत्र ब्रूमः, सत्यमेतत्, किन्तु हेतुस्वरूपनिरूपणावसरे सपदि 5 तद्गतदोषादोषदर्शनाद् विरुद्धता तस्याभिधीयते । यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्धहेतोर्वर्ण्यते, क्वचित् सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम्, यथा वा हेत्वाभासलक्षणे कथितमस्माभिरनित्यः शब्दश्चाक्षुषत्वादित्यस्यानैकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदयपथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार 10 इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते । यदा तु परार्थानुमानवाक्यस्य पञ्चावयवस्य, परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात् तद्विरोध एव झटिति मनसि विपरिवर्तते इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति 15 वाक्येऽप्रतिपतिविप्रतिपत्तिर्वा भवेदित्यद एव निग्रहस्थानम् । अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते । इह तु प्रतिज्ञया हेतुर्बाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम् । इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहरणान्तरनिरूपणं वृथाटाट्यैव । भाट्टैस्तु भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम्, निरालम्बनाः 20 सर्वे प्रत्ययाः प्रत्ययत्वादिति । यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सालम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति । तदुक्तम्, "हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्" इति । सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि इति । नित्यः शब्दः कृतकत्वा- 25 दिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम्, कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता ।

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240