Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जर्सा
[ द्वादशम् स्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं सम्प्रत्येवायमिष्यते । पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्, वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य
इत्यभियुक्ताः । 5 अर्थान्तरस्य लक्षणम्
प्रकृतादादप्रतिसम्बद्धमर्थान्तरम् ॥ प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति । यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तिकतामाशङ्कमानोऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति । वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेश्छात्राः । कः पुनर्भगवान् पाणिनिरिति ?
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः ।। 15 कः पुनर्महेश्वरोः ? यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति
अस्त्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः ।
विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः । अपि च, अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तोनि बिभर्ति मौलिना कृताञ्जलि: पादरजांसि वासवः ।। कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ?
इत्थं चारीक्रमो यस्मिन्नित्थञ्च करवर्तनाः ।
इत्थं यत्र घटीच्छेदा दात्रपादास्तथेदृशाः ॥ इत्येकैकमुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधना25 ङ्गवचनमिति कीर्तिनाप्यनुमोदितम् । द्वयोरपि च वादिप्रतिवादिनोः प्रकृता
कोतिनाऽप्यनुमोदितम् । स ह्याह “कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः ।
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240