Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
निग्रहस्थानप्रकरणम्
१९९ दूषणाभासवादिनं दोषप्राप्तमुत्तरपाक्षिको न निगृह्णाति तथा दूषणाभासवादित्वादितरस्य च तदनुद्भावनादिति ।
अत्रोच्यते, न, अप्रतिभायाः सम्यक्साधनविषयत्वात् । सम्यक्साधने च प्रयुक्ते तदत्तरस्याप्रतिपत्तिरप्रतिभा भवति, साधनाभासे तु प्रयुक्ते तदाभासतानभावनात् पर्यनयोज्योपेक्षणं भवति । अत्र हि साधनाभासवादी पर्यन- 5 योज्य एवेति विशेषः । यत्तु वस्तुवृत्तेन न कस्यचिज्जयः पराजयो वेति, तदेवमेव, किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते । तदुद्भावयिता तु यद्विकल्पितस्तत्राप्युच्यते, पूर्वपाक्षिकेण साधनाभासे प्रयुक्ते उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भाविते प्राश्निकानामपृष्टानां वक्तुमवसराभावात् स एव साधनाभासवादी कदाचिद् वैयात्यादेवं ब्रूयान्मया अस्य शक्ति 10 जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्यते, एतेन दूषणाभासवाद्यपि व्याख्यातः । अथ वोभयाभ्यर्थिताः सभापतिनियुक्ता वा प्राश्निकास्तथा कियन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम् । साधनाभासवादिनो हि धूर्ततया तदभिधानं सम्यक्साधनमसाधनादर्थसंशयाद् वा सम्भवति उत्तरपाक्षिकस्य उत्तरानुद्भावनं मोहादेवेति स एव 15 पराजीयते।
20
निरनुयोज्यानुयोगस्य लक्षणम्
अनिग्रहस्थाने निग्नहस्थानाभियोगो निरनुयोज्यानुयोगः॥
अनुज्झितयथोचितक्रममुपपन्नवादिनमप्रमादिनमनिग्रहार्हमपि निगृहीतोऽसीति यो ब्रूयात् स एवाभूतदोषोद्भावनान्निगृह्यते ।
अत्राह, यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनमभूतैरेव दोषैरभियुङ्क्ते, तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेरप्रतिभयैव स निगृह्यतां किं निरनुयोज्यानुयोगाख्यन्यूनतानिग्रहस्थानकथनेन, भूतदोषाभियोगपक्षे तु पूर्वपाक्षिक एव साधनाभासप्रयोगात् पराजीयते, अनुयोज्यः खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति ।
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240