Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 211
________________ १८८ न्यायमञ्ज [ द्वादशम् हरणम्, सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात्,स्वलक्षणे तेषामप्रवृत्तेः,अपोहस्य चातितुच्छत्वात् सर्वं तदभिधानं निरर्थकम् । अत एव चोन्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति । एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता भविष्यति । यच्चोक्तमीदृशां गणने का परिनिष्ठेति, तत् परिहृतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति। कपोलवादनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव । यस्य चास्मिन् कथाप्रसङ्गे गण्डवादित्रादि चेतसि परिस्फुरति तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलमसम्बद्धगोष्ठ्येति । 10 अविज्ञातार्थस्य लक्षणम् पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ यत् साधनवाक्यं दूषणवाक्यं वा विरभिहितं पर्षदा प्रतिवादिना च न विज्ञायते क्लिष्टशब्दप्रयोगमिति तीव्रमुच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय च धूर्तंरिदमाश्रीयते । ___अत्राह, अर्थासम्प्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद् भेदः ? अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेन्न तु विदुषो वक्तुं विवदमानस्य पराजयो भवितुमर्हति । किं कृतश्चैष त्रिरुच्चारणनियमः ? किं राजाज्ञया उत वाक्येनेति न विद्मः । अत्रोच्यते, निरथके सर्वेण सर्वमर्थशून्यता, इह तु भवन्नर्थो नावगम्यते, द्रुतोच्चारणादिव्यतिकरवशादिति कथमविशेषः ? तत्र च कल्प्यते नूनमसामर्थ्यमात्मीयं संवरीतुमना एवमभिधत्ते । न हि समर्थो विद्वान् विस्पष्टं न वक्तीति । त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः; किन्तु वस्तुस्थित्युपनत एव । यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति सम्भाव्यते, विस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम्, अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते, सर्वैरनवगमात्तु वक्तैव निगृह्यते । चतुर्धा पञ्चकृत्वो वाभिधाने त्विष्यमाणे निरवधिता अभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240