Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 199
________________ 5 10 20 १७६ 25 न्यायमञ्जय जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाह, विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ विग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । किञ्च पराजयनिमित्तं विप्रतिपत्तिरप्रतिपत्तिश्च विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिविप्रतिपत्तिः, साधनाभासे साधनबुद्धि:, दूषणाभासे दूषणबुद्धिः अप्रतिपत्तिस्त्वा15 रम्भविषयेऽनारम्भः, आरम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः, तयोरकरणमप्रतिपत्तिः, द्विधा हि वादी पराजीयते, यथा कर्तव्यतामनारभमाणो विपरीतं वा प्रतिपाद्यमानः । अत एव न कर्मकरणयोर्निग्रहमादिशन्ति । न हि ताभ्यां किञ्चिदपराद्धं स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात् । कर्ता तु प्रमाद्यन्नप्रयोज्यं प्रयुञ्जानः प्रयोज्यमप्रयुञ्जानो वा निग्रहमर्हति । प्रायेण यादृग् यक्षो बलिरपि तथेत्येवमाधाय बुद्धौ यस्तु ब्रूयात् कलुषमफलस्तस्य शुद्धोऽपि हेतुः । षट्पक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धि शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम् ।। इतीदं व्याख्यातं निजसरणिसाङ्कर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुर्विंशतिविधम् । अमूषां तत्त्वज्ञः परविरचितानां परिहृतौ स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ॥ निग्रहस्थानानां मूलनिर्देश: [ द्वादशम् निग्रहस्थानेषु अत एव कर्मकरणयोनं निग्रहमादिशन्तीत्यनेन वार्तिककारं निर्दिशति । स हि परपक्षोऽपि दृष्यत इति पराभ्युपगमं निराकर्तुमाह "एतत् तु न सम्यक्, कर्मणस्तदवस्थ्यात् । न हि दूषणाभिधानेन कर्मणोऽन्यथात्वं भवति यथाभूत एवासी दूष्यमाणस्तथाभूत एवादूष्यमाण इति न करणस्य विषयान्तरेऽसामर्थ्यात् साधनमपि प्रतिज्ञादिकं न दृष्यते विषयान्तरेऽसामर्थ्यात् न हि किञ्चित् साधनं यद् विषयान्तरे समर्थं स्यात् सर्वं साधनं सविशेषणं विषये समर्थमिति । तस्मादसमर्थयोः कर्मकरणयोरुपादानेन कतुर्निग्रहः” इत्यादि ।

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240