Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 197
________________ १७४ न्यायमञ्जयां [ द्वादशम् निराकरणीयं न तु भवानपि चोर इति परः प्रतिपत्तव्य इति । (६) एवं पञ्चमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधत्ते, यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषोपादानोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये, हन्त तर्हि तवापि तदेव निग्रहस्थानमवतरति त्वमप्येवमकार्षीस्तथा हि द्वितीयपक्षस्थेन मया प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधेऽपि समानो दोष इति मय्येव प्रतीपमापीपदः । तदेवं त्वत्त एव शिक्षित्वाहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति । मम चेद् मतानुज्ञा, प्रथमतरं तवासौ भवेदिति । तदेतदाह, स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥ स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति (१), तल्लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः (२), तमपेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इति 15 (३), उपपद्यमानः परपक्षे अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनैकान्तिकः प्रतिषेध इति (४), तस्मिन् सति पक्षकथितानकान्तिकत्वदोषाभ्युपगमात् तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति (६) षष्ठः पक्षः । सेयं षट्पक्षी । तस्यां प्रथमतृतीयपञ्चमाः स्थापनाहेतुवादिनः पक्षाः, 20 द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः । एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्तयमतानुज्ञादिदोषोपहतत्वादन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते । तथा हि चतुर्थषष्ठयोः पक्षयोरर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थे पक्षे परस्य समानदोषत्व स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहार इति। स्वपक्षलक्षणेऽपेक्षोपपत्तिर्यस्य प्रति25 षेधेऽपि समानो दोष इति । अस्यानैकान्तिकत्वदोषस्य स्वपक्षणापेक्षोपपत्तिस्तस्योपसंहार स्तथात्वेनोद्भावनम् । तस्य च हेतुनिर्देशः, इत्थमनैकान्तिकः प्रतिषेध इति । इत्थमिति

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240