Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 203
________________ 5 10 15 20 न्यायमञ्जय [ द्वादशम् तदनित्यत्वप्रतिज्ञा अस्य न हीयते ? यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति, स्यादेतदेवम्, यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचारोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि वर्तमानस्तदुद्धरणबुद्धया तथाविधमभिधत्ते येन प्रतिज्ञां जहाति । अतश्च व्यभिचारपरिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति । अयमेव मुख्यः प्रतिज्ञाहानेविषयः । १८० प्रतिज्ञान्तरस्य लक्षणम् प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो वादिनः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाद् इत्युक्ते पूर्ववत् सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमैन्द्रियकं यन्नित्यं तद्युक्तं तद्धि सर्वगतम्, असर्वंगतस्तु शब्द इति प्रतिज्ञां कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । अत्राह, नेदमप्रस्तुतप्रतिज्ञान्तरकरणम् अपि तु परोद्भावितव्यभिचारनिवारणं विशेषणोपादानमेतत् । एतदुक्तं भवति, असर्वंगतत्वे सत्यैन्द्रियकत्वादनित्यः शब्द इति । तदिदमसर्वगतत्वं प्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रह - स्थानम् ? यो हि मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वप्रतिज्ञामवधीर्यं तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत् । न चोन्मत्तप्रलापानां शास्त्रे लक्षणकरणं युक्तम् । स्पष्ट निग्रहहेतौ हेत्वाभासाभिधाने सम्भवति किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति । अत्रोच्यते, प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ न पुनः प्रतिज्ञान्तरं करणीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन् परेणानैकान्तिकीकृते 25 सति न तत्परिहारप्रकारमनुगुणमयमा स्थितवान् अपि त्वसर्वगतत्वप्रतिज्ञामन्यामधिरूढः ।

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240