Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 187
________________ १६४ न्यायमञ्जा [ द्वादशम् तदिह प्रकरणमुत्थापयता भवतोभयसाधर्म्यं तदुत्थापनकारणमभिहितमुभयसाधात् प्रक्रियासिद्धेरिति ब्रुवता। उभयसाधर्म्यञ्च मदुक्तमपि साधर्म्यमस्त्येव, अन्यथोभयपदार्थः कः ? एवञ्च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते, प्रतिषेधोपपत्तौ वा नोभयसाधर्म्य प्रकरणकारणं सिध्यतीति । निर्णयोत्पत्तिनिमित्तञ्च प्रकरणोपरमाय न किञ्चिदुक्तमुभयसाधाभिधानादिति । अहेतुसमस्य लक्षणम् काल्यानुपपत्तेहेंतोरहेतुसमः ॥ कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधोऽहेतुसमो भवति । 10 हेतुः साधनम्, साधनञ्च साध्यात् पूर्वं साधनम्, तदसति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्येदं साध्यम् ? अथ युगपत् साध्यसाधने भवतः, न तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतोर्न विशिष्यते । अस्योत्तरम्, 15 न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः ।। न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः । उत्पत्तौ तावदयमपर्यनुयोगः, पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनोऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् । 'बुद्धिसिद्धन्तु तदसत्' इति ज्ञप्तावपि परिहृत एष दोषः, उपलब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहभावनियमाद् यथादर्शनं 20 व्यवस्थेति प्रमाणपरीक्षायामभिधानात् । दृश्यते च निवर्तनहेतुना निर्वर्तनीयस्य निर्वृत्तिरुपलब्धिहेतुना चोपलभ्यस्योपलम्भ इति, प्रमाणसिद्धे वस्तुनि कोऽयमाक्षेपः ? तदिह प्रकरणमुत्थापयता भवतेति । प्रकरणं प्रतिपक्षः। निर्णयोत्पत्तिनिमित्त प्रकरणोपरमायेति । एवं हि प्रतिषेधः सिद्धयति यद्येकतरपक्षनिर्णये व्यवस्थितं प्रकरणं 25 भवति, न च निर्णयनिमित्तं किञ्चिदुक्तम्; उभयसाधाभिधानाद्धि संशयो भवति न निर्णय इत्यर्थः।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240